शुकं प्रति ब्रह्मोवाच
महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।
सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १॥
ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् ।
दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २॥
पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ।
चोरारिहं च जपतां अखिलेप्सितदायकम् ॥ ३॥
सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम ।
अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४॥
धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् ।
सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५॥
क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे ।
तन्मध्ये सुस्थितां देवीं मनीषाजनसेविताम् ॥ ६॥
सुस्नातां पुष्पसुरभिकुटिलालकबन्धनाम् ।
पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम् ॥ ७॥
इन्दीवरेक्षणां कामकोदण्डभ्रुवमीश्वरीम् ।
तिलप्रसवसंस्पर्धिनासिकालङ्कृतां श्रियम् ॥ ८॥
कुन्दकुड्मलदन्तालिं बन्धूकाधरपल्लवाम् ।
दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम् ॥ ९॥
रत्नताटङ्ककलितकर्णद्वितयसुन्दराम् ।
माङ्गल्याभरणोपेतां कम्बुकण्ठीं जगत्प्रियाम् ॥ १०॥
तारहारिमनोहारिकुचकुम्भविभूषिताम् ।
रत्नाङ्गदादिललितकरपद्मचतुष्टयाम् ॥ ११॥
कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम् ।
रोमराजिकलाचारुभुग्ननाभितलोदरीम् ॥ १२॥
पत्तवस्त्रसमुद्भासिसुनितंबादिलक्षणाम् ।
काञ्चनस्तम्भविभ्राजद्वरजानूरुशोभिताम् ॥ १३॥
स्मरकाह्लिकागर्वहारिजंभां हरिप्रियाम् ।
कमठीपृष्ठसदृशपादाब्जां चन्द्रसन्निभाम् ॥ १४॥
पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रियम् ।
सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥ १५॥
पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियाम् ।
नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम् ॥ १६॥
सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् ।
परब्रह्ममयां देवीं पद्मनाभकुटुंबिनीम् ।
एवं ध्यात्वा महालक्ष्मीं पठेत् तत्कवचं परम् ॥ १७॥
ध्यानम् ।
एकं न्यंच्यनतिक्षमं ममपरं चाकुंच्यपदांबुजं
मध्ये विष्टरपुण्डरीकमभयं विन्यस्तहस्ताम्बुजम् ।
त्वां पश्येम निषेदुषीमनुकलंकारुण्यकूलंकष-
स्फारापाङ्गतरङ्गमम्ब मधुरं मुग्धं मुखं बिभ्रतीम् ॥ १८॥
अथ कवचम् ।
महालक्ष्मीः शिरः पातु ललाटं मम पङ्कजा ।
कर्णे रक्षेद्रमा पातु नयने नलिनालया ॥ १९॥
नासिकामवतादंबा वाचं वाग्रूपिणी मम ।
दन्तानवतु जिह्वां श्रीरधरोष्ठं हरिप्रिया ॥ २०॥
चुबुकं पातु वरदा गलं गन्धर्वसेविता ।
वक्षः कुक्षिं करौ पायूं पृष्ठमव्याद्रमा स्वयम् ॥ २१॥
कटिमूरुद्वयं जानु जघं पातु रमा मम ।
सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी ॥ २२॥
सप्तधातून् स्वयं चापि रक्तं शुक्रं मनो मम ।
ज्ञानं बुद्धिं महोत्साहं सर्वं मे पातु पङ्कजा ॥ २३॥
मया कृतं च यत्किञ्चित्तत्सर्वं पातु सेन्दिरा ।
ममायुरवतात् लक्ष्मीः भार्यां पुत्रांश्च पुत्रिका ॥ २४॥
मित्राणि पातु सततमखिलानि हरिप्रिया ।
पातकं नाशयेत् लक्ष्मीः महारिष्टं हरेद्रमा ॥ २५॥
ममारिनाशनार्थाय मायामृत्युं जयेद्बलम् ।
सर्वाभीष्टं तु मे दद्यात् पातु मां कमलालया॥ २६॥
फलश्रुतिः ।
य इदं कवचं दिव्यं रमात्मा प्रयतः पठेत् ।
सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम् ॥ २७॥
दीर्घायुष्मान् भवेन्नित्यं सर्वसौभाग्यकल्पकम् ।
सर्वज्ञः सर्वदर्शी च सुखदश्च शुभोज्ज्वलः ॥ २८॥
सुपुत्रो गोपतिः श्रीमान् भविष्यति न संशयः ।
तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकम् ॥ २९॥
नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते ।
भूतप्रेतपिशाचाद्याः संत्रस्ता यान्ति दूरतः ॥ ३०॥
लिखित्वा स्थापयेद्यत्र तत्र सिद्धिर्भवेत् ध्रुवम् ।
नापमृत्युमवाप्नोति देहान्ते मुक्तिभाग्भवेत् ॥ ३१॥
आयुष्यं पौष्टिकं मेध्यं धान्यं दुःस्वप्ननाशनम् ।
प्रजाकरं पवित्रं च दुर्भिक्षर्तिविनाशनम् ॥ ३२॥
चित्तप्रसादजननं महामृत्युप्रशान्तिदम् ।
महारोगज्वरहरं ब्रह्महत्यादिशोधनम् ॥ ३३॥
महाधनप्रदं चैव पठितव्यं सुखार्थिभिः ।
धनार्थी धनमाप्नोति विवहार्थी लभेद्वधूम् ॥ ३४॥
विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतम् ।
राज्यार्थी राज्यमाप्नोति सत्यमुक्तं मया शुक ॥ ३५॥
एतद्देव्याःप्रसादेन शुकः कवचमाप्तवान् ।
कवचानुग्रहेणैव सर्वान् कामानवाप सः ॥ ३६॥
इति लक्ष्मीकवचं ब्रह्मस्तोत्रं समाप्तम् ।